Saved Bookmarks
| 1. |
पठेयम् पठेव पठेम - (अध्यापकः कक्षां प्रविशति। सर्वे छात्राः उत्थाय अध्यापकं नमन्ति। अध्यापकः छात्रान् दृष्ट्वा पृच्छति।) अध्यापकः किं सर्वे छात्राः उपस्थिता:? एक: छात्रः आचार्य! संजीव: नागच्छत्। अध्यापकः किमर्थम्? अपि तस्य गृहे सर्वं कुशलम्? राजीवः न आचार्य! सः तु ऋतुज्वरेण पीडितः अस्ति। अतः विद्यालयं नागच्छत्। अध्यापकः एतत् ज्ञात्वा दुःखम् अनुभवामि। वयं स्वास्थ्यस्य नियमानां पालनम् अवश्यं कुर्याम। ध्रुवः आचार्य! के ते नियमाः? वयं ज्ञातुम् इच्छामः। अध्यापकः संस्कृतसाहित्ये आयुर्वेदशास्त्रस्य एकः ग्रन्थः अस्ति। तस्मिन्नेव ग्रन्थे स्वास्थ्यस्य विषये विस्तरेण वर्णितम्। प्रकाशः आचार्य! ग्रन्थस्य किं नाम अस्ति केन च रचितः अयं ग्रन्थः? अध्यापकः अयं महान् ग्रन्थ: महर्षिणा चरकेण रचितः। ग्रन्थस्य नाम 'चरकसंहिता' अस्ति। अद्यापि चिकित्सकाः एतं ग्रन्थं ज्ञानवर्धनाय पठन्ति। स्वास्थ्यैव धनम् अस्ति। शरीरेण स्वस्थाः जनाः एव सुखम् अधिगन्तुम्, पठितुम्, क्रीडितुम्, धनम् अर्जितुं देशं च उन्नयितुं समर्थाः भवन्ति। अनादिका आचार्य! स्वास्थ्यस्य रक्षायै वयं किं कुर्याम? - बलीयसी केवलमीश्वरेच्छा। 8ट्रांसलेशन इन हिंदी |
| Answer» | |