| 1. |
Kasturba gandhi ke upar 5 line sanskrit me likhe |
|
Answer» कस्तूरबा गान्धी ( ( शृणु) /ˈkəstuːrəbɑː/) (गुजराती: કસ્તૂરબા ગાંધી, हिन्दी: कस्तूरबा गान्धी, आङ्ग्ल: KASTURBA GANDHI) महात्मनः अर्धम् अङ्गम् । भारतीयस्वतन्त्रतासङ्ग्रामे तस्याः महत् योगदानं वर्तते । स्वास्थ्यस्य विचारमपि अकृत्वा सत्याग्रहान्दोलनाय स्वयोगदानम् अयच्छत् सा । उन्नतपर्वतस्य समीपस्थानि लघुशिखराणि यथा स्वस्य औन्नत्यं सिद्धं कर्तुं न शक्नुवन्ति, तथैव महात्मनः विशालव्यक्तित्वस्य छायायां कस्तूरबा स्वप्रतिभां सिद्धयितुं न शक्तवती । परन्तु उन्नतपर्वतस्य औन्नत्यस्य आधारस्तु समीपस्थानि लघु शिखराणि एव भवन्ति । तथैव महात्मनः विशालव्यक्तित्वस्य एकः आधारः कस्तूरबा अपि आसीत् । सा सुख-दुःखेषु महात्मना सह स्थित्वा पत्नीधर्मस्य, राष्ट्रधर्मस्य च उत्तरदायित्वम् अवहत् |
|