1.

Give me a paragraph on india my motherland in sanskrit

Answer»

अस्माकं देशस्य प्राचीनं नाम "भारतं" वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति। पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते।

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।



Discussion

No Comment Found

Related InterviewSolutions