| 1. |
Anushasan ka mahatva nibandh in sanskrit? |
|
Answer» अनुशासनस्य अस्माकं जीवने अतिमहत्वं अस्ति। अनुशासनम् शब्द 'अनु' उपसर्गपूर्वक 'शासनम्' शब्देन निर्मितं अस्ति। अस्य अर्थमस्ति - शासनस्य अनुसरणम्। अतः नियमानां पालनं नियन्त्रणं स्वीकरणं वा अनुशासनम् कथ्यते। जीवनस्य प्रत्येकस्मिन् क्षेत्र कतिपयानां नियमानां पालनं आवश्यक वर्तते। प्रातः शीघ्रं जागरणं नियमितव्यायामं, नियमेन स्वकार्य करणं, कार्य प्रति पूर्णसमर्पणं अनुशासित जीवनस्य अंगनानि सन्ति। प्रकृत्याः श्रृष्टयाः वा मूलेअपि अनुशासनं दृश्यते। प्रकृत्याः नियमाः शाश्वताः, ध्रुवाः च सन्ति। पृथ्वी, ग्रहाः, नक्षत्रः, सूर्यः, चन्द्रः, आदयः च सर्वे अनुशासने बद्धाः सन्ति। शरीरस्य आरोग्याय यथा संतुलितं भोजनं अपेक्षते तथैव राष्ट्रस्य समाजस्य च उत्थानाय अनुशासनं अपेक्षते। छात्राणाम् कृते अनुशासनस्य बहुमहत्वं अस्ति, यदि छात्राः ध्यानेन पठन्ति तर्हि भविष्ये जीवनस्य प्रत्येकस्मिन क्षेत्रे साफल्यं प्राप्नुवन्ति। |
|